|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.6. अध्यायः 006
Mahabharata - Sabha Parva - Chapter Topics
उत्तमसभालाभगर्वितेन युधिष्ठिरेण सभाविषयकप्रश्ने नारदस्य इन्द्रादिसभावर्ण नप्रतिज्ञानम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशमापायन उवाच।
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्।
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः॥ 2-6-1(11547)
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम्।
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया॥ 2-6-2(11548)
राजभिर्यद्यथा कार्यं, पुरा वै तन्न संशयः।
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्॥ 2-6-3(11549)
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो।
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः॥ 2-6-4(11550)
वैशम्पायन उवाच। 2-6-5x(1392)
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च।
` तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्'॥
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्॥ 2-6-5(11551)
नादरदं सुस्थमासीनमुपासीनो युधिष्ठिरः।
अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः॥ 2-6-6(11552)
भवात्सञ्चरते लोकान्सदा नानाविधान्बहून्।
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः। 2-6-7(11553)
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित्।
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः॥ 2-6-8(11554)
वैशम्पायन उवाच। 2-6-9x(1393)
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्।
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा॥ 2-6-9(11555)
नारद उवाच। 2-6-10x(1394)
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता।
सभा मणिमयी राजन्यथेयं तव भारत॥ 2-6-10(11556)
सभां तु पितृराजस्य वरुणस्य च धीमतः।
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च॥ 2-6-11(11557)
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्।
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्॥ 2-6-12(11558)
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः।
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः॥
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ॥ 2-6-13(11559)
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः।
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः॥ 2-6-14(11560)
नारदं प्रत्यवाचेदं धर्मराजो महामनाः।
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्॥ 2-6-15(11561)
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः।
पितामहं च के तस्यां सभायां पर्युपासते॥ 2-6-16(11562)
वासवं देवराजं च यमं वैवस्वतं च के।
वरुणं च कुबेरं च सभायां पर्युपासते॥ 2-6-17(11563)
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव।
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः॥ 2-6-18(11564)
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत।
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः॥ ॥ 2-6-19(11565)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि षष्ठोऽध्यायः॥ 6॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-6-11 कैलासनिलयस्य कुबेरस्य॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|